6-2-183 प्रात् अस्वाङ्गं सञ्ज्ञायाम् उत्तरपदात् अन्तः उपसर्गात् अनोः
प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषयेऽन्तोदात्तं भवति। प्॒रको॒ष्ठम्। प्॒रगृ॒हम्। प्॒रद्वा॒रम्। अस्वाङ्गमिति किम्? प्रह॑स्तम्। प्रप॑दम्। संज्ञायामिति किम् ? प्रपी॑ठम्॥
प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ॥
प्रकोष्ठादिषु प्रादिसमासः बहुव्रीहिर्वा ॥