6-2-182 परेः अभितोभावि मण्डलम् उत्तरपदात् अन्तः उपसर्गात् अनोः
परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति। प॒रि॒कू॒लम्। प॒रि॒ती॒रम्। प॒रि॒म॒ण्ड॒लम्। बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा। अव्ययीभावपक्षेऽपि हि <<परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु>> ६.२.३३ इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते। अभित इत्युभयतः। अभितो भावोऽस्यास्तीति तदभितोभावि। यच्चैवंस्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते॥
परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥