6-2-17 स्वं स्वामिनि प्रकृत्या पूर्वपदम् तत्पुरुषे
स्वामिशब्द उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति। गोस्वा॑मी। अश्व॑स्वामी। धन॑स्वामी। अश्वधनगवां कथित एव स्वरः। स्वमिति किम् ? प॒र॒म॒स्वा॒मी॥
स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ॥