6-2-178 वनं समासे उत्तरपदात् अन्तः उपसर्गात् अनोः
समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात् परमन्तोदात्तं भवति। प्॒रव॒णे यष्टव्यम्। नि॒र्व॒णे प्रणिधीयते। <<प्रनिरन्तः०>> ८.४.५ इति णत्वम्। समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात्॥
समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ॥