उपसर्गात् स्वाङ्गं ध्रुवमपर्शु

6-2-177 उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे। प्॒रपृ॒ष्ठः। प्रो॒द॒रः। प्॒रल॒ला॒टः। ध्रुवमित्येकरूपमुच्यते। ध्रुवमस्य शीलम् इति यथा। सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः। उपसर्गादति किम् ? द॒र्शनीय॑ललाट स्वाङ्गमिति किम् ? प्रशा॑खो वृक्षः। ध्रुवमिति किम्? उद्बा॑हुः क्रोशति। अपर्श्विति किम् ? उत्प॑र्शुः। विप॑र्शुः॥

Siddhanta Kaumudi

Up

प्रपृष्टः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । स्वाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उद्बाहुः । अपर्शु किम् । विपर्शुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

स्वाङ्गं प्रति क्रियायोगाभावाद् कौपसर्गग्रहणं प्रद्यौपलक्षमम् । सततं यस्येत्यादिना षृष्ठस्य ध्रुवत्वं दर्शयति । तीर्थपृष्ठगूढयूथ इति पृष्ठशब्दो निपातितः । उद्वाहुः क्रोशतीति । अत्र क्रोशनसमय एवोद्वाहुत्वं न सर्वदेत्यध्रुवत्वम् । स्पृशेः श्वण्शुनौ पृ च स्वृशेर्धातोः श्वण्, न् - इत्येतौ प्रत्यौ भवतः, धातोश्च पृ इत्यादेशः । बहुलवचनाच्छकारस्योत्संज्ञा न भवति, यथाक्रमं वृद्धिगुणौ - पार्श्वम्, पर्शुः ॥ एपरेरमितोभावि मण्डलम् ॥ बहुव्रीहिरयमित्यादि । यदा बहुव्रीहिस्तदा परितः कूलमस्येति विग्रहः । प्रादिसमासे तु परिगतं कूलमिति । यदा पुनरव्ययीभावस्तदा परिकूलादिति । अव्ययीभावपक्षेऽपि हीत्यादि । अव्ययीभावेऽप्ययमेव स्वर एषितव्यः न समासस्वरेण सिद्धिरित्यर्त्थः । अमितो भावोऽस्यास्तीत्यमितोभावीति । लौकिके योगे लाघवस्यासार्वत्रिकत्वाद्वहुव्रीहिरेव नाश्रित इत्याह - अमितोभावीति । सुप्यजातौ इति णिनिरिति । यच्चैवंस्वभावमिति । अभितोभवनस्वभावम् ॥