6-2-179 अन्तः उत्तरपदात् अन्तः उपसर्गात् वनं अनोः
अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति। अ॒न्त॒र्व॒णो देशः। अनुपसर्गार्थ आरम्भः॥
अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ॥