6-2-172 नञ्सुभ्याम् उत्तरपदात् अन्तः बहुव्रीहौ अनोः
index: 6.2.172 sutra: नञ्सुभ्याम्
नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति। अयवो देशः। अव्रीहिः। अमाषः। सुयवः। सुव्रीहिः। सुमाषः। समासस्य एतदन्तोदात्तत्वम् इष्यते। समासान्ताश्च अवयवा भवन्तीति अनृचः, बह्वृचः इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति।
index: 6.2.172 sutra: नञ्सुभ्याम्
बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ।
index: 6.2.172 sutra: नञ्सुभ्याम्
समासस्यैतदित्यादि । यद्यपि समास उतरपदं चेति प्रकृतम्, तथाप्यत्र समासस्येव कार्यिर्त्वामष्यते । एतच्च कपि पूर्वम् इति वचनादवसीयते । यदि ह्यनेनोतरपदस्यान्तोदातत्वं स्यात्, ततोऽकृमारीक इत्यादावनेनैव समद्धत्वात् अपि पूर्वम् इति न वाच्यं स्यात् । समासान्ताश्च समासवयवा भवन्तीति । समासान्ता इत्यत्रान्तग्रहणमेतदर्थम् - समासान्ताः समासग्रहणेन यथा गृह्यएरन्निति, तेनानृच इत्यादौ कृते समासान्ते तस्यैव समासान्तस्योदातत्वं भवति । वहवृचेति । बहोर्नञ्वद् इत्यतिदेशादिदमत्रोदाहृतम् । एतच्च समासान्ताः समासस्यैवावयवाः, नोतरपदस्य इत्याश्रित्योक्तम् । न कपि इत्यत्र तु पूर्वं समासान्तेषु पश्चातदन्तेन समासः इति वक्ष्यति ॥