वा जाते

6-2-171 वा जाते उत्तरपदात् अन्तः बहुव्रीहौ जातिकालसुखादिभ्यः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जातशब्द उत्तरपदे वान्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः। द॒न्त॒जा॒तः, दन्त॑जातः। स्त॒न॒जा॒तः, स्तन॑जातः। कालात् — मा॒स॒जा॒तः, मास॑जातः। सं॒व॒त्स॒र॒जा॒तः, सं॒व॒त्स॒रजा॑तः। सुखादिभ्यः — सु॒ख॒जा॒तः, सु॒खजा॑तः। दुः॒ख॒जा॒तः, दुः॒खजा॑तः॥

Siddhanta Kaumudi

Up

जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

दन्तस्तनशब्दौ स्वाङ्गशिटामदन्तानाम् इत्याद्यौदातौ । मासशब्दः प्रामादीनां च इत्याद्यौदातः । संवत्सरशब्दः बंहिष्ठवत्सरतिशत्थान्तानाम् इत्यन्तोदातः । अस्यार्थः - बंहिष्टवत्सरतिशत्थ त्येविमन्तानामन्त उदातो भवति - बंहिष्ठः, संवत्सरः, सप्ततिः, अशीतिः, त्रिंशत्, चत्वारिंशत्, गूथम्, पूथम् । सुखदुःखशब्दौ खान्तस्याशमादेः इत्यान्तोदातौ । अस्यार्थः - खान्तस्य शब्दस्याशकारमकारादेरन्त उदातो भवति, नखः, तौखा । अशमादेरिति किम् शिखा, मुखम् । तृपेः स्फायितञ्चि इत्यादिना रक्प्रत्ययः । कृतेश्छर च - कृच्छ्रम् । असेर्बहुलवचनाद्रक्, अस्रम् । अम्बिकादयश्चेति अम्बकशब्द इकन्प्रत्ययान्तो निपातितः । प्रतिगता आपोऽत्र प्रतीपम् । कृवापाजिभ्य उण् - कारुः । कृपेः क्युन् - कृपणः । सहेः क्ते सोढः । दश सुखादयः ॥