6-2-173 कपि पूर्वम् उत्तरपदात् अन्तः बहुव्रीहौ नञ्सुभ्याम् अनोः
नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति। अ॒कु॒मा॒रीको॑ देशः। अ॒वृ॒ष॒लीकः॑। अ॒ब्॒रह्म्ाब॒न्धूकः॑। सु॒कु॒मा॒रीकः॑। सु॒वृ॒ष॒लीकः॑। सु॒ब्॒रह्म॒ब॒न्धूकः॑॥
नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥
पूर्वेण कप एवादातत्वे प्राप्ते ततः पूर्वस्योदातचं धीयते ह्रस्वन्तेऽन्त्यात्पूर्वम् कैति वचनादिह दीर्घान्ता एवोदाहृताः । नद्यःतश्चेति कप् ॥