जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः

6-2-170 जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति। सा॒र॒ङ्ग॒ज॒ग्धः। प॒ला॒ण्डु॒भ॒क्ष्िातः। सु॒रा॒पी॒तः। काल — मा॒स॒जा॒तः। सं॒व॒त्स॒र॒जा॒तः। द्व्य॒ह॒जा॒तः। त्र्य॒ह॒जा॒तः। सुखादिभ्यः — सु॒ख॒जा॒तः। दुः॒ख॒जा॒तः। तृ॒प्र॒जा॒तः। जात्यादिभ्य इति किम् ? पु॒त्रजा॑तः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनादिति किम्? वस्त्र॑च्छन्नः। वस॑नच्छन्नः। अकृतमितप्रतिपन्ना इति किम्? कुण्ड॑कृतः। कुण्ड॑मितः। कुण्ड॑प्रतिपन्नः। एतेषु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्यस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीयेऽध्याये ३.१.१८ पठ्यन्ते॥

Siddhanta Kaumudi

Up

सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up