6-2-16 प्रीतौ च प्रकृत्या पूर्वपदम् तत्पुरुषे सुखप्रिययोः
प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। ब्रा॒ह्म॒णसु॑खं पायसम्। छा॒त्रपि्॑रयोऽनध्यायः। क॒न्या॑प्रियो मृदङ्गः। सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम्। ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ। कन्याशब्दः स्वरितान्तः (फिट् सू० ७६)। प्रीताविति किम् ? रा॒ज॒सु॒खम्। रा॒ज॒पि्॒रयम्॥
प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥
इह तु सुखपिरययोः तैत्येतावत्सूत्रं कृत्वा हिते चेति वक्तव्यम्, तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यति तत्राह - सुखप्रिययोरित्यादि । ब्राह्मणशब्दोऽणन्तः । छात्रशब्दः च्छत्रा दिभ्यो णः इति णप्रत्ययान्तः । कन्याशब्दः स्वरितान्त इति । तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः इति फिषि पाठात् ॥