नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः

6-2-168 न अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः उत्तरपदात् अन्तः बहुव्रीहौ मुखं स्वाङ्गम् अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति। अव्यय — उ॒च्चैर्मु॑खः। नी॒चैर्मु॑खः। दिक् शब्द — प्राङ्मु॑खः। प्र॒त्यङ्मु॑खः। गो — गोमु॑खः। महत् — म॒हामु॑खः। स्थूल — स्थू॒लमु॑खः। मुष्टि — मु॒ष्टिमु॑खः। पृथु — पृथुमु॑खः। वत्स — व॒त्समु॑खः। पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति। गोमुष्टिवत्सपूर्वस्योपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते॥

Siddhanta Kaumudi

Up

उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up