मुखं स्वाङ्गम्

6-2-167 मुखं स्वाङ्गम् उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति। गौ॒र॒मु॒खः। भ॒द्॒रमु॒खः। स्वाङ्गमिति किम्? दी॒र्घमु॑खा शाला। स्वाङ्गमद्रवादिलक्षणम् (४.१.५४ का०) इह गृह्यते॥

Siddhanta Kaumudi

Up

गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उच्चैर्नीचैः शब्दै स्वरादिष्वन्तोदातौ । प्राक्शब्दः अनिगन्तोऽञ्चतौ इत्याद्यौदातः । प्रत्यङ्त्यित्र कृदुतरपदप्रकृतिस्वरः । गोमहतोरुक्तः स्वरः । स्थूलशब्दः ऋज्रेन्द्र इत्यादौ निपातितः, अन्तोदातः । मुषेः क्तिच् - मुष्टिः । कुश्च, प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्चेति पृथुः । वदेः सः वत्सः । गोमुष्टिवत्सपूर्वस्यत्यादि । अस्य प्रतिषेधस्यावकाशो यत्र गवाध्युपमानं न भवति - गौर्मुखमित यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति, सर्वत्र गवाद्यौपमेयम्, नोपमानम् विकल्पस्योतरस्यावकाशो यत्र गवादिपूर्वपदं न भवति - सिंहमुखः व्याघ्रमुखः, गावादावुपमाने उभयप्रसंगेऽयमेव भवति प्रतिषेधः पूर्वविप्रतिषेधेन ॥