6-2-166 व्यवायिनः अन्तरम् उत्तरपदात् अन्तः बहुव्रीहौ अनोः
व्यवायी व्यवधाता, तद्वाचिनः परमन्तरं बहुव्रीहौ समासेऽन्तोदात्तं भवति। व॒स्त्रा॒न्त॒रः। प॒टा॒न्त॒रः। क॒म्ब॒ला॒न्त॒रः। वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः। वस्रव्यवधायक इत्यर्थः। व्यवायिन इति किम् ? आ॒त्मान्त॑रः। आत्मा स्वाभावोऽन्तरोऽन्यो यस्यासावात्मान्तरः॥
व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ॥
उदाहरणे व्यवधानवाचिनोऽन्तराशब्दात् तत्करोतीति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः ॥