संज्ञायां मित्राजिनयोः

6-2-165 सञ्ज्ञायां मित्राजिनयोः उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोरुत्तरपदयोरन्त उदात्तो भवति। दे॒व॒मि॒त्रः। ब्॒रह्म्ामि॒त्रः। वृ॒का॒जि॒नः। कू॒ला॒जि॒नः। कृ॒ष्णा॒जि॒नः। संज्ञायामिति किम् ? प्रि॒यमि॑त्रः। म॒हाजि॑नः॥ ऋषिप्रतिषेधो मित्रे॥ वि॒श्वामि॑त्र॒ ऋषिः॑ (तै०सं० ४.३.२.२)॥

Siddhanta Kaumudi

Up

देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ।<!ऋषिप्रतिषेधो मित्रे !> (वार्तिकम्) ॥ विश्वामित्र ऋषिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

विश्वामित्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदातत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदातं भवति ॥