बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने

6-2-162 बहुव्रीहौ इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदात् अन्तः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुव्रीहौ समास इदम् एतद् तदित्येतेभ्य उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्यान्त उदात्तो भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इ॒दं॒प्॒रथ॒मः। इ॒दं॒द्वि॒ती॒यः। इ॒दं॒तृ॒ती॒यः। ए॒त॒त्प्॒रथ॒मः। ए॒त॒द्द्वि॒ती॒यः। ए॒त॒त्तृ॒ती॒यः। त॒त्प्॒रथ॒मः। त॒द्द्वि॒ती॒यः। त॒त्त्ाृती॒यः। बहुव्रीहाविति किम्? अनेन प्रथम इ॒दंप्॑रथमः। तृतीयेति योगविभागात् समासः। इदमेतत्तद्भ्य इति किम्? यत्प्॑रथमः। प्रथमपूरणयोरिति किम्? तानि बहून्यस्य तद्ब॑हुः। क्रियागणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। द्रव्यगणनमेतत्। गणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। इदंप्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति। इ॒दं॒प्॒रथ॒मकाः॑। बहुव्रीहावित्येतद् <<वनं समासे>>६.२.१७८ इति प्रागेतस्मादधिकृतं वेदितव्यम्॥

Siddhanta Kaumudi

Up

एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-<{SK692}> इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-<{SK3912}> इत्यतः प्राग्बोध्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्अतदधिकारविहितानां प्रत्ययानां ग्रहणम् । अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति । यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति । इदम्प्रधाना इत्यर्थं इति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उतरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उतरपदादिः इत्यतः प्रभति उतरपदस्य इति च, तत्र चोतरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदातं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोतरपदस्य । यदा च समासार्थादुतरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपातयोरेव स्वरः । ननु यदत्रोतपरपदं कबन्तं न तदुपातम्, यच्चोपातं न तदुतरपदम्, कपा सहोतरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उतरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुतरपदम्, उतरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोतरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ॥