6-2-161 विभाषा तृन्नन्नतीक्ष्णशुचिषु उत्तरपदात् अन्तः नञः अनोः
तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषान्त उदात्तो भवति। अ॒क॒र्ता, अक॑र्ता। अन्न — अ॒न॒न्नम्, अन॑न्नम्। तीक्ष्ण — अ॒ती॒क्ष्णम्, अती॑क्ष्णम्। शुचि — अ॒शु॒चिः, अशु॑चिः। पक्षेऽव्ययस्वर एव भवति॥
तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ॥