6-2-163 सङ्ख्यायाः स्तनः उत्तरपदात् अन्तः बहुव्रीहौ अनोः
संख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति। द्वि॒स्त॒ना। त्र्िास्त॒ना च॒तुः॒स्त॒ना। संख्याया इति किम् ? द॒र्श॒नीय॑स्तना। स्तन इति किम्? द्विशि॑राः॥
बहुव्रीहावन्तोदात्तः । द्विस्तनी । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥