कृत्योकेष्णुच्चार्वादयश्च

6-2-160 कृत्योकेष्णुच्चार्वादयः च उत्तरपदात् अन्तः नञः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृत्य उक इष्णुच् इत्येवमन्ताश्चार्वादयश्च नञ उत्तरेऽन्तोदात्ता भवन्ति। कृत्य — अ॒क॒र्त॒व्यम्। अ॒क॒र॒णी॒यम्। उक — अ॒ना॒गा॒मु॒कम्। अ॒न॒प॒ला॒षु॒कम्। इष्णुच् — अ॒न॒लं॒क॒रि॒ष्णुः। अ॒नि॒रा॒क॒रि॒ष्णुः। इष्णुज्ग्रहणे <<कर्तरि भुवः खिष्णुच्०>>३.२.५७ इत्यस्य द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्याद् भवति। अ॒ना॒ढ्यं॒भ॒वि॒ष्णुः। अ॒सु॒भ॒गं॒भ॒वि॒ष्णुः। चार्वादयः — अ॒चा॒रुः। अ॒सा॒धुः। अ॒यौ॒धि॒कः। अ॒व॒दा॒न्यः॥ चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒न॒ङ्ग॒मे॒ज॒यः। वदान्य। अकस्मात्। अत्रापि द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒क॒स्मात्। वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् (ग०सू० १७६)। एते वर्तमानादयः संज्ञायां द्रष्टव्याः। विकारसदृशे व्यस्तसमस्ते (ग०सू० १७७)। अ॒वि॒का॒रः। अ॒स॒दृ॒शः। अ॒वि॒का॒र॒स॒दृशः। गृहपति। गृहपतिक। राजाह्नोश्छन्दसि (ग०सू० १७८)। अ॒रा॒जा। अ॒न॒हः। भाषायां नञ्स्वर एव भवति॥

Siddhanta Kaumudi

Up

नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदातत्वाततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि । चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ॥