6-2-15 सुखप्रिययोः हिते प्रकृत्या पूर्वपदम् तत्पुरुषे
सुख प्रिय इत्येतयोरुत्तरपदयोर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। गम॑नसुखम्। वच॑नसुखम्। व्या॒हर॑णसुखम्। सुख। प्रिय — गम॑नप्रियम्। वच॑नप्रियम्। व्या॒हर॑णप्रियम्। समानाधिकरणसमासा एते। तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तेते। तद्धि हितं यदायत्यां प्रीतिं करोति। गमनादिषु ल्युडन्तेषु लित्स्वरः। हित इति किम् ? प॒र॒म॒सु॒खम्। प॒र॒म॒पि्॒रयम्॥
एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ॥
समानाधिकरणसमासा एते इति । गमनादीनां विशेष णत्वात्पूर्वनिपातं मन्यते । अथ तु सुखप्रिययोर्विशेषणत्वं तदा मयूरव्यांसकादित्वमेष्टव्यम । आयत्यामिति । परिणामे, आगामिकाले, भाविकाल इति यावत् ॥