6-2-157 अच्कौ अशक्तौ उत्तरपदात् अन्तः नञः अनोः
अच् क इत्येवमन्तमशक्त ौ गम्यमानायामुत्तरपदं नञः परमन्तोदात्तं भवति। अ॒प॒चो यः पक्तुं न शक्नोति। अ॒ज॒यः। कः खल्वपि — अ॒वि॒क्ष्िापः। अ॒वि॒लि॒खः। अशक्त ाविति किम्? अप॑चो दीक्षितः। अप॑चः परिव्राजकः॥
अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥
अविक्षिप इति । वक्ष्यमाणैः कृत्योकेष्णुज्भिः साहचर्यादच्कयौः कृतोरिदं ग्रहणम्, तेन कृद्ग्रहणपरिभाषया विक्षिपशब्दस्य कान्तत्वम् । दीक्षितपरिव्राजकौ शास्त्रनिषेधान्न पचतः, न त्वशक्तत्वात्, तेन तत्र व्रतं गम्यते, न त्वशक्तिः ॥