नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः

6-2-155 नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः उत्तरपदात् अन्तः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संपादि अर्ह हित अलम् इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराण्यन्तोदात्तानि भवन्ति। संपादि — कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अ॒का॒र्ण्ावे॒ष्ट॒कि॒कम्। अर्ह — छेदमर्हति छैदिकः, न छैदिकः अ॒च्छ॒ैदि॒कः हित — वत्सेभ्यो हितो वत्सीयः, न वत्सीयः अ॒व॒त्सी॒यः। अलमर्थ — संतापाय प्रभवति सांतापिकः। न सांतापिकः अ॒सां॒ता॒पि॒कः। नञ इति किम्? गर्दभरथमर्हति गार्दभरथिकः। विगा॑र्दभरथिकः। गुणप्रतिषेध इति किम्? गार्दभरथिकादन्यः अगा॑र्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं संपादित्वाद्युच्यते। तत्प्रतिषेधो यत्रोच्यते समासे, तत्रायं विधिः — कर्णवेष्टकाभ्यां न संपादि मुखमिति। संपाद्यर्हहितालमर्था इति किम्? पाणिनीयमधीते पाणिनीयः, न पाणिनीयः अपा॑णिनीयः। तद्धिता इति किम्? कन्यां वोढुमर्हति कन्याया वोढा, न वोढा अवो॑ढा। <<अर्हे कृत्यतृचश्च>>३.३.१६९ इति तृच्॥

Siddhanta Kaumudi

Up

संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठय् । छ्èअदिक इति । छ्èअदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठञ् । नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तैति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमितं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वातस्य शास्त्र उदाहृतम् ॥ इति । कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेअति । अर्हर्थे तृच्, ढत्वधात्वष्टुअत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ॥