6-2-154 मिश्रं च अनुपसर्गम् असन्धौ उत्तरपदात् अन्तः तृतीयायाः अनोः
तृतीयेति वर्तते। मिश्र इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात् परमन्तोदात्तं भव्यत्यसंधौ गम्यमाने। गु॒ड॒मि॒श्राः। ति॒ल॒मि॒श्राः। स॒र्पि॒र्मि॒श्राः। मिश्रमिति किम्? गु॒डधा॑नाः। अनुपसर्गमिति किम्? गु॒डसं॑मिश्राः। इहानुपसर्गग्रहणं ज्ञापकमन्यत्र मिश्रग्रहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः २.१.३१ इति सोपसर्गेणापि मिश्रशब्देन तृतीयासमासो भवति। असंधाविति किम्? ब्रा॒ह्म॒णमि॑श्रो राजा। ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः। संधिरिति हि पणबन्धेनैकार्थ्यमुच्यते। केचित् पुनराहुर्गृह्यमाणविशेषा प्रत्यासत्तिः संधिरिति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्त्तिविभागो गृह्यत इति ब्राह्मणमिश्रो राजेति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्रा इति॥
पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥
कथं पुनर्मिश्रशब्दस्य विधीयमानः सम्मिश्रशब्दस्य प्राप्वोति, कथं वा मिश्रशब्देन समान उच्यमानः सोपसर्गेण लभ्यते अत आह - इहेत्यादि । प्रत्युदाहरणे सन्धिं दर्शयति - बाह्मकणैरिति । एतदेव स्पष्ययति - एकार्थ्यमापचेति । कथं पुनः सन्धिशब्दस्यायमर्थः इत्याह - सन्धिरिति । पणबन्धः - परिभाषणम् - यदि मे भवानेषं कुर्यादहमपि ते इदं करिष्यामीत्येवंरुपः । केचित्पुनरिति । गृह्यमाणो विशेषो व्यावृत्तिर्थस्यां प्रत्यासतो सा तथोक्ता । ततः किम् इत्याह - तत्रेति । यद्यपि राज्ञोऽपि ब्राह्मणैस्सह प्रत्यासतिरस्ति, तथापि सत्यामपि तस्यां परस्परमूर्तिविभागस्वरुपभेदो गृह्यत इति प्रत्युदाहरणोपपतिरित्यर्थः । उदाहरणेषु नैवमित्याह - उदाहरणेष्विति ॥