6-2-153 ऊनार्थकलहं तृतीयायाः उत्तरपदात् अन्तः अनोः
ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यन्तोदात्तानि भवन्ति। मा॒षो॒नम्। का॒र्षा॒प॒णो॒नम्। मा॒ष॒वि॒क॒लम्। का॒र्षा॒प॒ण॒वि॒क॒लम्। कलह — अ॒सि॒क॒ल॒हः। वा॒क्क॒ल॒हः। तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः। अत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्येनार्थो धा॒न्या॒र्थः। ऊनशब्देनैव त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्॥
माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥
उदाहरणेषु पूर्वसदृश इति तृतीयासमासः । अत्र केचिदित्यादि । नन्वेवमूनशब्दस्यापि स्वरुपग्रहणं प्रसज्येत, ततश्च तदर्थानामान्येषां ग्रहणं न स्यात् अत आह - ऊनशब्देनैव त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् ॥