6-2-152 सप्तम्याः पुण्यम् उत्तरपदात् अन्तः अनोः
सप्तम्यन्तात् परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यम् अ॒ध्य॒य॒न॒पु॒ण्यम्। वेदे पुण्यं वे॒द॒पु॒ण्यम्। <<सप्तमी०>>२.१.४० इति योगविभागात् समासः। <<तत्पुरुषे तुल्यार्थ०>>६.२.२ इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते। उणादीनां तु व्युत्पत्तिपक्षे (प०उ० ५.१५) कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति। सप्तम्या इति किम्? वेदेन पुण्यं वे॒दपु॑ण्यम्॥
अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ॥
उणादीनां त्विति । अतः कृकमिकंस इत्यत्र कमिग्रहणैनैव सिद्धे कंसग्रहणादुणादिषु एपाक्षिकव्युत्पत्तिकार्यमिति भावः । पूञो यत्, णुक् ह्रस्वश्च, पुण्यम् । ह्रस्वविधानादगुणत्वम् । यतोऽनावः इत्याद्यौदातवम् ॥