6-2-151 मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः उत्तरपदात् अन्तः कारकात् दत्त अनोः
मन्नन्तं क्तिन्नन्तं व्याख्यान शयन आसन स्थान इत्येतानि याजकादयः क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति। मन् — र॒थ॒व॒र्त्म। श॒क॒ट॒व॒र्त्म। क्तिन् — पा॒ण्िानि॒कृ॒तिः। आ॒पि॒श॒लि॒कृ॒तिः। व्याख्यान — ऋ॒ग॒य॒न॒व्या॒ख्या॒नम्। छ॒न्दो॒व्या॒ख्या॒नम्। शयन — रा॒ज॒श॒य॒नम्। ब्रा॒ह्म्ाण्ाश्ाय॒नम्। आसन — रा॒जा॒स॒नम्। ब्॒राह्म्ाणा॒स॒नम्। स्थान — गो॒स्था॒नम्। अ॒श्व॒स्था॒नम्। याजकादि — ब्रा॒ह्म्ाण॒या॒ज॒कः। क्षत्रि॒॒य॒या॒ज॒कः। ब्॒राह्म्ाण्ापू॒ज॒कः। क्ष॒त्र्िाय॒पू॒ज॒कः। याजकादयो ये <<याजकादिभिश्च>>२.२.९ इति षष्ठीसमासार्थाः पठ्यन्ते, त एवेह गृह्यन्ते। क्रीत — गो॒क्री॒तः। अ॒श्व॒क्री॒तः। कृत्स्वरापवादोऽयं योगः। क्रीतशब्दे तु <<तृतीया कर्मणि>>६.२.४८ इत्यस्यापवादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम्। कारकादित्येव — प्रकृ॑तिः। प्रहृ॑तिः॥
कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-<{SK3784}> इति स्वरः ॥
रथवर्त्मेति । वृतेरधिकरणे मनिन्, कर्तरि षष्ठ।ल समासः । पाणिनिकृतिरिति । कर्मणि क्तिन्, पूर्ववत्समासः । व्याख्यानशब्दः करणसाधनः, शयनासनस्थानशब्दा अधिकरणसाधनाः। प्रकृतिः, प्रहृतिरिति । तादौ च निति कृत्यतौ इति पूर्वपदप्रकृतिस्वर एवात्र भवति ॥