6-2-150 अनः भावकर्मवचनः उत्तरपदात् अन्तः कारकात् दत्त अनोः
अनप्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात् परमन्तोदात्तं भवति। ओ॒द॒न॒भो॒ज॒नं सुखम्। प॒यः॒पा॒नं सुखम्। च॒न्द॒न॒पि्॒रय॒ङ्गु॒का॒ले॒प॒नं सुखम्। कर्मवचनरा॒ज॒भो॒ज॒नाः शालयः। रा॒जा॒च्छा॒द॒नानि॑ वासांसि। <<कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्>>३.३.११६ इत्ययं योग उभयथा वर्ण्यते — कर्मण्युपपदे भावे ल्युड् भवति, कर्मण्यभिधेये ल्युड् भवतीति। तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अन इति किम्? ह॒स्त॒हा॒र्य॑मुदश्वित्। भावकर्मवचन इति किम्? द॒न्त॒धाव॑नम्। करणे ल्युट्। कारकादित्येव — नि॒दर्श॑नम्। अ॒व॒लेख॑नम्। सर्वेषु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति॥
कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥
पयः पानादीनाममुपपदसमासः । राजभोजनादौ षष्ठ।ल समासः । सर्वषु प्रत्युदाहरणेष्वित्यादि । एतेन गातिकारकोपपदात् इत्यस्यायमपवाद इति दर्शयति ॥