इत्थम्भूतेन कृतमिति च

6-2-149 इत्थंभूतेन कृतम् इति च उत्तरपदात् अन्तः क्तः कारकात् दत्त अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इमं प्रकारमापन्न इत्थंभूतः। इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्तते, तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒प्त॒प्॒रल॒पि॒तम्। उ॒न्म॒त्त॒प्॒रल॒पि॒तम्। प्॒रम॒त्त॒गी॒तम्। वि॒प॒न्न॒श्र्ाुतम्। कृतमिति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। <<तृतीया कर्मणि>> ६.२.४८ इत्यस्यायमपवादः। भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव ६.२.१४४ सिद्धमन्तोदात्तत्वं भवति॥

Siddhanta Kaumudi

Up

इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-<{SK3782}> इत्यस्यापवादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यमत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ॥