6-2-14 मात्रोपज्ञोपक्रमछाये नपुंसके प्रकृत्या पूर्वपदम् तत्पुरुषे
मात्र उपज्ञा उपक्रम छाया एतेषूत्तेरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। भि॒क्षामा॑त्रं न ददाति याचितः। स॒मु॒द्रमा॑त्रं न सरोऽस्ति किंचन। मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते। तत्र भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीसमासः। तत्र भिक्षाशब्दो <<गुरोश्च हलः>> ३.३.१०३ इत्यप्रत्ययान्तोऽन्तोदात्तः। समुद्रशब्दोऽपि फिषि <<पाटलापालङ्काम्बासागरार्थानाम्>> (फिट् सू० २) इत्यन्तोदात्त एव। उपज्ञा — पा॒णि॒नोप॑ज्ञम् अकालकं व्याकरणम्। व्याड्यु॑पज्ञं दुष्करणम्। आपि॑शल्युपज्ञं गुरुलाघवम्। षष्ठीसमासा एते। तत्र पणिनोऽपत्यमित्यणन्तः। पाणिनशब्दः प्रत्ययस्वरेणान्तोदात्तः। व्याडिरिञन्तरत्वादाद्युदात्तः। तद्वदापिशलिः। उपक्रम — आ॒ढ्योप॑क्रमं प्रासादः। द॒र्श॒नीयो॑पक्रमम्। सु॒कु॒मा॒रोप॑क्रमम्। न॒न्दोप॑क्रमाणि मानानि। एतेऽपि षष्ठीसमासा एव। तत्रैत्यैनं ध्यायन्तीत्याढ्यः। <<घञर्थे कविधानम्०>> (३.३.५८ वा०) इति कप्रत्ययः, आङ्पूर्वाद् ध्यायतेः पृषोदरादित्वाद् धस्य ढत्वम्। तदयमाढ्यशब्दस्थाथादिस्वरेणान्तोदात्तः ६.२.१४४। दर्शनीयशब्दो रित्त्वादुपोत्तमोदात्तः। सुकुमारशब्दो <<नञ्सुभ्याम्>> ६.२.१७२ इत्यन्तोदात्तः। नन्दशब्द पचाद्यचि व्युत्पादितः। उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता <<उपज्ञोपक्रमं तदाद्याचिख्यासायाम्>> २.४.२१ इति। छाया — इषु॑च्छायम्। धनुश्छायम्। इषुशब्द <<ईषेः किच्च>> (प०उ० १.१३) इत्युप्रत्ययान्तस्तत्र च <<धान्ये नित्>> (प०उ० १.९) इति वर्तते, तेनाद्युदात्तः। धनुःशब्दोऽपि <<नब्विषयस्यानिसन्तस्य>> (फिट् सू० २६) इत्याद्युदात्त एव। इषूणां छायेति षष्ठीसमासः। <<छाया बाहुल्ये>> २.४.२२ इति नपुंसकलिङ्गता। नपुंसक इति किम्? कु॒ड्य॒च्छा॒या॥
मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः <{SK3280}> इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ॥
फिपिति आदिमेन योगेन शान्तनवीयं न चतुष्कं सूत्रमुपलक्षणयति । तत्र समुद्रशब्दः गागरार्थत्वादन्तोदातः ॥