6-2-147 प्रवृद्धादीनां च उत्तरपदात् अन्तः क्तः सञ्ज्ञायाम् अनोः
index: 6.2.147 sutra: प्रवृद्धादीनां च
प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति। प्रवृद्धं यानम्। प्रवृद्धो वृषलः। प्रयुक्ताः सक्तवः आकर्षे अवहितः। अवहितो भोगेसु। खट्वारूढः। कविशस्तः। यानदीनामत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः। यानादिभ्योऽन्यत्र अपि तेषामन्तोदात्तत्वम् भवत्येव। विषयनियमार्थ एव इत्येके। असंज्ञार्थोऽयमारम्भः। आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः। तेन पुनरुत्स्यूतं वासो देयम्, पुनर्निष्कृतो रथः इत्येवमादि सिद्धं भवति।
index: 6.2.147 sutra: प्रवृद्धादीनां च
एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ।
index: 6.2.147 sutra: प्रवृद्धादीनां च
वृधु वृद्धौ यु मिश्रणे डुधाञ् धारणे रुह बीजजन्मनि शसु हिंसायाम् । खट्वारुढ इति । खट्वा क्षेपे इति समासः । नैतदिह पठितव्यमिति अहीने द्वितीया तैत्यत्रावोचाम । कविभिः शस्तः, तृतीय कर्मणि तैत्यस्यापवादः । प्रायोवृत्तिप्रदर्शनार्थ इति । प्रायो बाहुल्येन या वृत्तिर्यानादिष्वर्थेषु तस्याः प्रदर्शनार्थ इत्यर्थः । पुनरुत्स्यूतमिति । सीव्यतेः च्छवोः शूडनुनासिके इति ऊठ, पनश्चनसोश्च्छन्दसि इति गतिसंज्ञायां समासः ॥