6-2-146 सञ्ज्ञायाम् अनाचितादीनाम् उत्तरपदात् अन्तः क्तः अनोः
संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सं॒भू॒तो रामायणः। उ॒प॒हू॒तः शाकल्यः। प॒रि॒ज॒ग्धः कौण्डिन्यः। संभूत इति प्राप्त्यर्थाद् भवतेः कर्मणि क्त ः। <<गतिरनन्तरः>> ६.२.४९ इत्यत्र हि कर्मणीत्यनुवर्तते, तद्बाधनार्थं चेदम्। ध॒नु॒ष्खा॒ता नदी। कु॒द्दा॒ल॒खा॒तं नगरम्। ह॒स्ति॒मृ॒दि॒ता भूमिः। <<तृतीया कर्मणि>> ६.२.४८ इति प्राप्तिरिह बाध्यते। अनाचितादीनामिति किम्? आचि॑तम्। पर्या॑चितम्। आस्था॑पितम्। परि॑गृहीतम्। निरु॑क्तम्। प्रति॑पन्नम्। प्रश्लि॑ष्टम्। उप॑हतम्। उप॑स्थितम्। संहितागवि (ग०सू० १७५)। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदान्तोदात्तो न भवति। यदा तु गोः संज्ञा तदान्तोदात्त एव॥
गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥
सम्भूतादयः शब्दा रामायणादीनां संज्ञाः, रामायणशब्दो नपुंसकलिङ्गः, प्रायेण तु पुंल्लिङ्गः पठ।ल्ते। उपहूत इति । ह्वञो निष्ठायां यजादित्वात् सग्प्रसारणम्। परिजग्ध इति । अदो जग्धिरादेशः । प्राप्त्यर्थाद्भवतेरिति । चुरादौ आधृषाद्वा इत्यधिकारे भू प्राप्तवात्मनेपदी इति पठ।ल्ते । किं पुनः कारणं प्रयत्नेन कर्मणि क्त तौपपाद्यते अत आह - गातिरनन्तर इत्यत्र हीति । तद्वाधनार्थञ्चेदमिति । प्रकृतोदाहरणाभिप्रयमेतद् , न सूत्राभिप्रायम् । घनुष्खातेति । नित्यं समासेऽनुतरपदस्थस्य इति षत्वम् । चिञ् चयने ष्ठा गतिनिवृतौ, ण्यन्तः केवलश्च, ग्रह उपादाने , वच परिभाषणे, पद गतौ शिलष आलिङ्गने , डुधाञ् धारणपोषाणयोः - सर्वत्र कर्णमि क्तः, एते आचितादयः । संहिताऽगवीति गाणसूत्रम्, तद् व्याचष्टे - याद गोरन्यस्वेति ॥