6-2-145 सूपमानात् क्तः उत्तरपदात् अन्तः अनोः
सु इत्येतस्मादुपमानात् च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒कृ॒तम् (तै०सं० ४.७.२.२)। सु॒भु॒क्त म्। सु॒पी॒तम्। उपमानात् — वृ॒का॒व॒लु॒प्तम्। श॒श॒प्लु॒तम्। सिं॒ह॒वि॒न॒र्दि॒तम्। सुशब्दाद् <<गतिरनन्तरः>> ६.२.४९ इति प्राप्त उपमानादपि <<तृतीया कर्मणि>> ६.२.४८ इत्ययमपवादः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता॥
सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ॥
वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ॥