थाथघञ्क्ताजबित्रकाणाम्

6-2-144 थाथघञ्क्ताजबित्रकाणाम् उत्तरपदात् अन्तः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

थ अथ घञ् क्त अज् अप् इत्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात् परेषामन्त उदात्तो भवति। सु॒नी॒थः। अ॒व॒भृ॒थः(तै०सं० १.७.५.३)। <<हनिकुषिनीरमिकाशिभ्यः क्थन्>> (प०उ० २.२) इति <<अवे भृञः>> (प०उ० २.३) इति च क्थन्प्रत्ययान्तावेतौ। तत्र कुदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्। अथ — आ॒व॒स॒थः (शौ०सं० ९.६.७)। उ॒प॒व॒स॒थः। <<उपसर्गे वसेः>> (प०उ० ३.११६) इत्यथन्प्रत्ययः। घञ् — प्॒रभे॒दः। का॒ष्ठ॒भे॒दः। र॒ज्जु॒भे॒दः। क्त — दू॒रा॒दा॒ग॒तः। वि॒शु॒ष्कः। आ॒त॒प॒श्ाुष्कः। अच् — प्र॒क्ष॒यः। प्॒रज॒यः। <<क्षयो निवासे>> ६.१.२०१ <<जयः करणम्>> ६.१.२०२ इति चाद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् — प्र॒ल॒वः(तै० आ० ५.४.५)। प्र॒स॒वः (तै०सं० १.७.८.३)। इत्र — प्॒रल॒वि॒त्रम्। प्॒रस॒वि॒त्रम्। क — गो॒वृ॒षः। ख॒री॒वृ॒षः। गां वर्षति, खरीं वर्षतीति मूलविभुजादित्वात् (३.२.५ वा०) कप्रत्ययः। प्र॒वृ॒षः। प्॒रहृ॒षः। इगुपधात् ३.१.१३५ इति कप्रत्ययः। <<वृषादीनां च>> ६.१.२०३ इति वृषशब्द आद्युदात्तः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता। कर्मप्रवचनीयेऽव्ययस्वर एव भवति॥

Siddhanta Kaumudi

Up

थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धमत आह - क्षयो निवास इत्यादि । प्रलवः प्रसव इत्यादि । आञ्दोरप् । प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे चेति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥