नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु

6-2-142 न उत्तरपदे अनुदात्तादौ अपृथिवीरुद्रपूषमन्थिषु उत्तरपदात् उत्तरपदात् इः प्रकृत्या युगपत् देवताद्वन्द्वे अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उत्तरपदेऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युगपत् प्रकृतिस्वरे भवतः। इ॒न्द्रा॒ग्नी (तै०सं० २.२.१.२)। इ॒न्द्॒रवा॒यू (तै०सं० ६.६.८.३)। अग्निवायुशब्दावन्तोदात्तौ। उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद्, द्वन्द्वविशेषणं मा भूदिति। अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम्। अपृथिव्यादिष्विति किम्? द्यावा॑पृथि॒व्यौ (तै०सं० २.६.९.५)। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र — सो॑मा॒रु॒द्रौ॑ (मै०सं० २.१.५)। <<रोदेर्णिलुक्०>> (प०उ० २.२२) इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः। पूषन् — इन्द्रा॑पू॒षणौ॑। <<श्वन्नुक्षन्पूषन्॰>> (प० उ० १.१५९) इति पूषान्तोदात्तो निपात्यते। मन्थिन् — शु॒क्राम॒न्थिनौ॑ (तै०सं० ६.४.१०.३)। मन्थोऽस्यास्तीति मन्थी। इन्नन्तत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव॥

Siddhanta Kaumudi

Up

पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अग्निशब्दः अङ्गेर्निर्नलोपश्चेति निप्रत्ययान्तः । कृवापाचिमिस्वदिसाध्यशूभ्य उण् , युक्, वायुः । उतरपदग्रहकणमित्यादि । अन्यथाऽस्मिन्प्रकरणे द्वन्द्वेः सप्तम्या निर्दिष्टः, नोतरपदम् तत्र अनुदातादौ इति सप्तम्यन्तं द्वन्द्वस्यैव विशेषणं स्यात्, ततश्चन्द्रसूर्यावित्यादौ प्रितषेधः स्यचात् । उतरपदग्रहणे तु सति तस्यैव श्रुतस्य अनुदातादौ त्येतिद्विशेषणं भवति । अनुदातादावित्यादि । तान्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पः प्रसज्येत । प्रथेः षिवन् सम्प्रसारणं च । शुक्रशब्दोऽयम् ऋज्रेन्द्राग्र इत्यादिना निपातितोऽन्तोदातः ॥