6-2-141 देवताद्वन्द्वे च उत्तरपदात् उत्तरपदात् इः प्रकृत्या युगपत् अनोः
देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रा॒सोमौ॑। इन्द्रा॒वरु॑णौ। इन्द्॒राबृह॒स्पती॑। <<ऋजेन्द्राग्र०>> (प०उ० २.२९) इति इन्द्रशब्द आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेनाद्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्ल॒क्ष॒न्य॒ग्रो॒धौ। द्वन्द्वग्रहणं किम्? अ॒ग्नि॒ष्टो॒मः॥
उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥
उदाहरणेषु देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । अत्र त्रय उदाता इति । त्रयाणां पपदानामादयः ॥