6-2-140 उभे वनस्पत्यादिषु युगपत् उत्तरपदात् उत्तरपदात् इः प्रकृत्या अनोः
प्रकृत्येति वर्तते। वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः। वन॒स्पतिः॑ (तै०सं० १.२.२.३)। वनपतिशब्दावाद्युदात्तौ पारस्करप्रभृतित्वात् सुट्। बृह॒स्पतिः॑ (तै०सं० ६.४.१०.१)। बृहतां पतिः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (ग० सू० १६३) इति सुट् तकारलोपश्च। बृहदित्येतदन्तोदात्तं निपातयन्ति। तस्य केचिदाद्युदात्तत्वं वर्णयन्ति। शची॒पतिः॑ (तै०सं० ४.४.८.१)। शचीशब्दः <<कृदिकारादक्ति नः>> (ग०सू० ४९) इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिषु पठन्ति, तेषामाद्युदात्तः। तनू॒नपा॒त् (तै०सं० ४.१.८.१) तनोतेरौणादिक ऊप्रत्ययस्तेन तनूशब्दोन्तोदात्तः। न पाति न पालयति वा नपात् क्विबन्तः। <<नभ्राण्नपात्०>>६.३.७५ इत्यादिनाद्युदात्तो निपातितः। तन्वा नपात् तनूनपात्। नरा॒शंसः॑ (तै०सं० ४.१.८.१)। नरा अस्मिन्नासीनाः शंसन्ति, नरा एनं शंसन्तीति वा नराशंसः। <<नृनये>> । अबन्तो नरशब्द आद्युदात्तः। शंसशब्दोऽपि घञन्तः। <<अन्येषामपि दृश्यते>>६.३.१३७ इति दीर्घत्वम्। शुनः॒शेपः॑ (तै०सं० ५.२.१.३)। शुन इव शेपोऽस्येति बहुव्रीहिः। तत्र <<शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम्>> (६.३.२१ वा०) इति षष्ठ्या अलुक् । उभावाद्युदात्तौ। शण्डा॒मर्कौ॑ (तै०सं० ६.४.१०.१)। शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर्द्वन्द्वे <<अन्येषामपि दृश्यते>> ६.३.१३७ इति दीर्घत्वम्। तृष्णा॑वरू॒त्री। तृष्णशब्द आद्युदात्तः। वरूत्रीशब्दो ग्रसितादिसूत्रे ७.२.३४ निपातितोऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। ब॒म्बावि॒श्वव॑यसौ (तै०सं० ६.६.८.४)। बम्बशब्दोऽन्तोदात्तः। विश्ववयःशब्दोऽपि <<बहुव्रीहौ विश्वं संज्ञायाम्>> ६.२.१०६ इति विश्वशब्दोऽन्तोदात्तः। तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृ॒त्युः। मरिति मृञो विच्प्रत्ययः। मृत्युशब्दोऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थोऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः॥
एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वनआ (वन॒स्पतिं॒ वन॒आ) । बृहस्पतिं यः (बृह॒स्पतिं॒ यः) । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् (ह॒र्ष॒या॒ शची॒पति॑म्) । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते (तनू॒नपा॑दुच्यते) । नराशंसं वाजिनम् (नरा॒शंसं॑ वा॒जिन॑म्) । निपातनाद्दीर्घः । शुनःशेपम् (शुनः॒शेप॑म्) ॥
वनशब्दः नब्विषयस्वानिसन्तस्य इत्याद्यौदातः पातेर्डतिः पतिः । तनुशब्दोऽन्तोदात इति । केचितु तस्याप्याद्यौदातत्वमत्र निपातयन्ति, तथा च तनूनपादुच्यते गर्भ आसुरः इत्याद्यौदातमधीयते । नरा अस्मिन्नित्यादि । शंसेः अकर्तरि च कारके संज्ञायाम् इत्यधिकरणे वा घञ् । अबन्त इति । कृत्यल्युटो बहुलम् इति कर्तरि आञ्दोरप् । शुनः शेप इति । बहुव्रीहिः । शुनः पुच्छशेपलाङ्गूलेषु इत्येनेन षष्ठ।ल अलुक् । उभावाद्यौदाताविति । श्वन्शब्दः प्रातिपदिकस्वरेण शेपशब्दः स्वाङ्गशिटामदन्तानाम् तैत्यनेन । शिट् इति सर्वादीनां संज्ञा, स्वाङ्गवाचिनां शिटामदन्तानां चांदिरुदातो भवतीत्यर्थः । शडि रुजायाम् पचाद्यच् शण्डः, प्रामादित्वादाद्यौदातः । मर्चयतेः इम्भीकापाश्ल्यतिमर्चिभ्यः कन् इति कन्, तितुत्र तैत्यादिना इट् प्रतिषेधः, कुत्वम् - मर्कशब्द ताअद्यौदातः । तुष्णाब्द इति । तृषेर्निष्ठायामस्मादेव निपातनादिडभावः , निष्ठा च द्व्यजनात् इत्याद्यौदातत्वम् । लबि अवस्रन्सने पचाद्यच्, अस्मादेव निपात्नाल्लकारस्य बकारः, बिश्वानि वयांस्यस्य विश्ववयाः, मृडः अन्येभ्योऽपि दृश्यते इति विच् - मरिति । भुजिमृङ्भ्यां युक्त्युकौ - मृत्युः ॥