6-2-13 गन्तव्यपण्यं वाणिजे प्रकृत्या पूर्वपदम् तत्पुरुषे
वाणिजशब्द उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति। म॒द्रवा॑णिजः। का॒श्मीर॑वाणिजः। गान्धा॑रिवाणिजः। मद्रादिषु गत्वा व्यवहरन्तीत्यर्थः। सप्तसमीसमासा एते। तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः। काश्मीरशब्दोऽपि पृषोदरादिषु मध्योदात्तः। गान्धारिशब्दः कर्दमादिषु पठ्यते। तत्र <<कर्दमादीनां च>> (फिट् सू० ५९) इति पक्ष आद्युदात्तो भवति द्वितीयो वा। पण्य — गोवा॑णिजः। अश्व॑वाणिजः। गोशब्दोऽन्तोदात्तः। अश्वशब्द आद्युदात्तः। गन्तव्यपण्यमिति किम्? प॒र॒म॒वा॒णि॒जः। उ॒त्त॒म॒वा॒णि॒जः॥
वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ॥
वणिगेव वाणिजः प्रज्ञादित्वादण्। सप्तमीसमासा एत एति । सप्तमी इति योगविभागात् । गोवाणिजादयस्तु षष्ठीसमासाः॥