6-2-138 शितेः नित्याबह्वज् बहुव्रीहौ अवभसत् उत्तरपदात् उत्तरपदात् इः प्रकृत्या अनोः
शितेरुत्तरपदं नित्यं यदबह्वज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत् प्रकृतिस्वरं भवति। शि॒ति॒पादः॑। शि॒त्यंसः॑। शि॒त्योष्ठः॑ (तै०सं० ५.६.१४.१)। पादशब्दो वृषादित्वादाद्युदात्तः। अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वात्। शितेरिति किम्? द॒र्श॒नीय॑पादः। नित्यग्रहणं किम्? शिति॑ककुत् (तै०सं० ५.६.१४.१)। <<ककुदस्यावस्थायां लोपः>>५.४.१४६ विधीयते। तत्रावस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवतीति तेन न नित्याबह्वच्। अबह्वजिति किम्? शिति॑ललाटः। बहुव्रीहाविति किम्? शितेः पादः शि॒ति॒पा॒दः। अभसदिति किम्? शिति॑भस॒द् (तै०सं० ५.६.१४.१)। शितिशब्द आद्युदात्तः। पूर्वपदप्रकृतिस्वरापवादो योगः॥
शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ॥
अंसौष्ठशब्दावित्यादि । अम् रोगे, अमेः सन् , असः, उष दाहेः उषिकुषिगातिभ्यस्थन्, ओष्ठः । दर्शनीयशब्दोऽनीयर् - प्रत्ययान्तो मध्योदातः । शितिशब्दः वर्णानां तणतिनितान्तानाम् इत्याद्यौदातः ॥