6-2-137 प्रकृत्या भगालम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। कु॒म्भी॒भ॒गाल॑म्। कु॒म्भी॒क॒पाल॑म्। कु॒म्भी॒न॒दाल॑म्। भगालादयो मध्योदात्ताः। प्रकृत्येत्येतदधिकृतम् <<अन्तः>>६.२.१४३ इति यावद् वेदितव्यम्॥
भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतमन्तः <{SK3877}> इति यावत् ॥
एभगालमित्यर्थग्रणमित्याह - भगालवाचीति । अत्र च व्याख्यानमेव शरणम् । भगालादयचो दध्योदाता इति । लघावन्ते द्वयोश्च बह्वषो गुरुः इति वचनात् ॥