कुण्डं वनम्

6-2-136 कुण्डं वनम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डमित्येतदुत्तरपदं वनवाचि तत्पुरुषे समास आद्युदात्तं भवति। द॒र्भ॒कुण्ड॑म्। श॒र॒कुण्ड॑म्। वनमिति किम्? मृ॒त्कु॒ण्डम्॥

Siddhanta Kaumudi

Up

कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कुण्डशब्ददीऽत्रेत्यादि । जनविशेषाभिधायी कुण्डशब्दस्तस्य नान्तरेण साद्दश्यम्, ततोऽन्यत्र वने वृत्तिः सम्भवतीति भावः । अन्ये तु वनेऽपि मुख्य एव कुण्डशब्द इत्याहुः । तत्र वनशब्देन विशेषणेन भाजन विशेषवाजी निवर्त्यते, समुदायवाची चात्र वनशब्दः, न तूदकवाची, आह हि - कुण्डाद्यौदातत्वे तत्समुदायग्रहणमिति, तच्छब्देन पूर्वदार्थः परामृश्यते । उपर आह - वनसमुदाये इति वक्तव्यम्, न तु वने इति ए, तेन शरवणसमुदायः शरकुण्डशब्देनोच्यत इति ॥