6-2-135 षट् च काण्डादीनि उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अप्राणिषष्ठ्याः अनोः
षट् पूर्वोक्तानि काण्डादीन्युत्तरपदान्यप्राणिषष्ठ्या आद्युदात्तानि भवन्ति। <<॰काण्डं गर्हायाम्>>६.२.१२६ इत्युक्तमगर्हायामपि भवति। द॒र्भ॒काण्ड॑म्। श॒र॒काण्ड॑म्। <<चीरमुपमानम्>> ६.२.१२७ इत्युक्त मनुपमानमपि भवति। द॒र्भ॒चीर॑म्। कु॒श॒चीर॑म्। <<पललसूपशाकं मिश्रे>> ६.२.१२८ इत्युक्त ममिश्रेऽपि भवति। ति॒ल॒पल॑लम्। मु॒द्ग॒सूपः॑। मू॒ल॒क॒शाक॑म्। <<कूलं संज्ञायाम्>> ६.२.१२९ इत्युक्त मसंज्ञायामपि भवति। न॒दी॒कूल॑म्। स॒मु॒द्॒रकूल॑म्। षडिति किम्? रा॒ज॒सू॒दः॥
अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥