6-2-134 चूर्णादीनि अप्राणिषष्ठ्याः उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
उत्तरपदादिरिति वर्तते, तत्पुरुष इति च। चूर्णादीन्युत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समास आद्युदात्तानि भवन्ति। मु॒द्ग॒चूर्ण॑म्। म॒सू॒र॒चूर्ण॑म्। अप्राणिषष्ठ्या इति किम्? म॒त्स्य॒चू॒र्णम्। षष्ठ्या इति किम्? प॒र॒म॒चू॒र्णम्॥ चूर्ण। करिप। करिव। शाकिन। शाकट। द्राक्षा। तूस्त। कुन्दम। दलप। चमसी। चक्कन। चौल। चूर्णादिः। चूर्णादीन्यप्राण्युपग्रहादिति सूत्रस्य पाठान्तरम्। तत्रोपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते॥
एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ॥
चूरी दाहे अस्मात् क्तः चूर्णम्। वा गतिगन्धनयोः, पा रक्षणे - आभ्यां करिशब्द उपपदे आतोऽनुपसर्गे कः, करिवम्, करिपम्। महेरिनण्, बहुलवचनात् शकेरपि भवति - शाकिनम्, शकादिभ्योऽटच्, शकटम्, तद्वहतीति शकटादण् - शाकटम् । द्राक् क्षरति द्राक्षा, पृषोदरादिः । तुस शब्दे ततो बहुलवचनात् क्तः उपधादीर्घत्वं च । कुअं दुनोति, कुत्सितं वा दुनोतीति क्किप्, अस्मादेव निपातनातुगभावः, पूर्वपदस्य च मुम् कुन्दुअं मिमीते कुन्दुमः । दलेः कपन्, दलपः । चमेरसच् चमसः ततो जातिलक्षणो ङीष् - चमसी । कनी दीप्तिकान्तिगतिषु - अस्मात् पचाद्यच्, अस्मादेव निपातनाद् द्वर्वचनम् - चक्कनः । च्कन इत्यन्ये पठन्ति, तत्रापि निपातनादेव रुपसिद्धिः । चोलस्यापत्यम् द्व्यचः इत्यण् - चौलः । एते चूर्णादयः । एपूर्वाचार्योपचारेणेति । उपचारः प्रयोगः ॥