6-2-133 न आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः उत्तरपदात् उत्तरपदात् इः तत्पुरुषे पुत्रः अनोः
आचार्य उपाध्यायः। राजा ईश्वरः। ऋत्विजो याजकाः। संयुक्ताःस्त्रीसंबन्धिनः श्यालादयः। ज्ञातयो मातृपितृसंबन्धिनो बान्धवाः। आचार्याद्याख्येभ्यः परः पुत्रशब्दो नाद्युदात्तो भवति। आख्याग्रहणात् स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति। आ॒चा॒र्य॒पु॒त्रः। उ॒पा॒ध्या॒य॒पु॒त्रः। शा॒क॒टा॒य॒न॒पु॒त्रः। रा॒ज॒पु॒र्त्रः। इ॒श्व॒र॒पु॒त्रः। न॒न्द॒पु॒त्रः। ऋ॒त्वि॒क्पु॒त्रः। या॒ज॒क॒पु॒त्रः। हो॒तुः॒पु॒त्रः। सं॒यु॒क्त॒पु॒त्रः। सं॒ब॒न्धि॒पु॒त्रः। श्या॒ल॒पु॒त्रः। ज्ञा॒ति॒पु॒त्रः। भ्रा॒तु॒ष्पु॒त्रः। <<ऋतो विद्यायोनिसंबन्धेभ्यः>>६.३.२३ इति षष्ठ्या अलुक् । पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वमेव भवित॥
एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ॥
संयुक्ताः स्रीसम्बन्धिनः श्यालादय इति । योगरुढिरेषा तेषाम्, यथा सम्बन्धिशब्दः । ज्ञातयो मातापितृसम्बन्धेन बान्धवा इति । पितसम्बन्धिष्वेव तु ज्ञातिशब्दो लोके प्रसिद्धः । आख्याग्रहणमाचार्यादिभिः प्रतेयकमभिसम्बध्यत । भ्रातुष्पुत्र इति । कस्कादिषु पाठात् षत्वम् ॥