6-2-131 वर्ग्यादयः च उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अकर्मधारये अनोः
वर्ग्य इत्येवमादीन्युत्तरपदानि अकर्मधारये तत्पुरुषे समास आद्युदात्तानि भवन्ति। वा॒सु॒दे॒व॒वर्ग्यः॑। वा॒सु॒दे॒व॒पक्ष्यः॑। अ॒र्जु॒न॒वर्ग्यः॑। अ॒र्जु॒न॒पक्ष्यः॑। अकर्मधारय इत्येव — प॒र॒म॒व॒र्ग्यः। वर्ग्यादयः प्रातिपदिकेषु न पठ्यन्ते। दिगादिषु ४.३.५४ तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठिताः, त एव यत्प्रत्ययान्ता वर्ग्यादय इह प्रतिपत्तव्याः॥
अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ॥