6-2-130 अकर्मधारये राज्यम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमित्येतदुत्तरपदमाद्युदात्तं भवति। ब्रा॒ह्म॒ण॒राज्य॑म्। क्ष॒त्रि॒य॒राज्य॑म्। अकर्मधारय इति किम्? प॒र॒म॒रा॒ज्यम्। चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन। कुचे॑लम्। कुरा॑ज्यम्॥
कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् ।<!चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम् !> (वार्तिकम्) ॥ कुराज्यम् ॥
चेलराज्यादिस्वरादिति । आदिशब्देन वर्ग्यादिस्वरपरिग्रहः, चेलरजायादिस्वरस्यावकाशः - भार्याचेलम्, ब्राह्मणराज्यम्, तत्पुरुषे तुल्यार्थ इत्यादिना विहितस्याव्ययस्वरस्यावकाशः - निष्कौशाम्बिः, कुचेलम्, कुराज्यमित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः॥