कूलसूदस्थलकर्षाः संज्ञायाम्

6-2-129 कूलसूदस्थलकर्षाः सञ्ज्ञायाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कूल सूद स्थल कर्ष इत्येतान्युत्तरपदानि तत्पुरुषे समासे संज्ञायां विषय आद्युदात्तानि भवन्ति। दा॒क्ष्िाकूल॑म्। मा॒ह॒कि॒कूल॑म्। दे॒व॒सूद॑म्। भा॒जी॒सूद॑म्। दा॒ण्डा॒य॒न॒स्थली॑। मा॒ह॒कि॒स्थली॑। दा॒क्षि॒कर्षः॑। ग्रामनामधेयान्येतानि। स्थलग्रहणे लिङ्गविशिष्टत्वात् स्थलीशब्दोऽपि गृह्यते। <<जानपदकुण्ड०>>४.१.४२ इत्यनेन ङीष्। संज्ञायामिति किम्? प॒र॒म॒कू॒लम्॥

Siddhanta Kaumudi

Up

आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भजीसूदमिति । भाजीशब्दो जानपदादि सूत्रेण ङीषन्तः ॥