द्विगौ प्रमाणे

6-2-12 द्विगौ प्रमाणे प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्य॑सप्तशमः। गान्धा॑रिसप्तशमः। सप्त शमाः प्रमाणमस्येति मात्रच उत्पन्नस्य <<प्रमाणे लो द्विगोर्नित्यम्>> (५.२.३७ वा०) इति लुक्। प्राच्यश्चासौ सप्तशमश्चेति, प्राच्यसप्तशमः। प्राच्यशब्द आद्युदात्तः। गान्धारिशब्दः कर्दमादित्वाद् (फिट् सू० ५९) आद्युदात्तो मध्योदात्तो वा। द्विगाविति किम् ? व्री॒हि॒प्॒रस्थः। प्रमाण इति किम् ? प॒र॒म॒स॒प्त॒श॒मः॥

Siddhanta Kaumudi

Up

द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ।<!प्रमाणे लोद्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुतरपदम्॥