6-2-128 पललसूपशाकं मिश्रे उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समास आद्युदात्तानि भवन्ति। गु॒ड॒पल॑लम्। घ्ाृत॒पल॑लम्। घ्ाृत॒सूपः॑। मू॒ल॒क॒सूपः॑। घ्ाृत॒शाक॑म्। मु॒द्ग॒शाक॑म्। गुडेन मिश्रं पललं गुडपललम्। <<भक्ष्येण मिश्रीकरणम्>>२.१.३५ इति समासः। मिश्र इति किम् ? प॒र॒म॒प॒ल॒लम्॥
घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् <{SK697}> इति समासः । मिश्रे किम् । परमपललम् ॥