चीरमुपमानम्

6-2-127 चीरम् उपमानम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समास आद्युदात्तं भवति। वस्त्रं चीरमिव व॒स्त्र॒चीर॑म्। प॒ट॒चीर॑म्। क॒म्ब॒ल॒चीर॑म्। उपमानमिति किम्? प॒र॒म॒ची॒रम्॥

Siddhanta Kaumudi

Up

वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चीरमुपमानम्>> - इकोऽसवर्णे । 'इक' इति षष्ठी ।एङः पदान्ता॑दित्यतःपदान्ता॑दित्यनुवर्तते । तच्च षष्ठन्ततया विपरिणम्यते ।अची॑ति चानुवर्तते । ततश्चपदान्तस्येकोऽसवर्णेऽचि परे ह्रस्वः स्या॑दित्येकं वाक्यम् । चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि संबध्यते । ततश्चउक्तो ह्रस्वः प्रकृत्या स्वभावेन अवतिष्ठत॑ इति वाक्यान्तरं सम्पद्यते । फलितमाह — पदान्ता इक इत्यादिना । यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्रस्वः स्यादित्येव लभ्यते । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात् । वक्रि-अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम् ।

Padamanjari

Up

वस्त्रचीरमिति । वस्त्रं चीरमिवेति पूर्ववद्व्याध्रादिसमासः ॥