6-2-126 चेलखेटकटुककाण्डं गर्हायाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
चेल खेट कटुक काण्ड इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति। पु॒त्र॒चेल॑म्। भा॒र्या॒चेल॑म्। उ॒पा॒न॒त्खेट॑म्। न॒ग॒र॒खेट॑म्। द॒धि॒कटु॑कम्। उ॒द॒श्वि॒त्कटु॑कम्। भू॒त॒काण्ड॑म्। प्॒रजा॒काण्ड॑म्। चेलादीनां सादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् <<उपमितं व्याघ्रादिभिः०>>२.१.५६ इति समासः। गर्हायामिति किम्? प॒र॒म॒चे॒लम्॥
चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ॥
पुत्रचेलमिति । चेलवतुच्छमित्यर्थः । खेट इति तृणनाम, तद्वद् दुर्बला उपानत्खेटम्। कटुअकम् - अस्वादु, तथा दध्यपि गतस्वादुकत्वात् कटुअकम्। काण्डमिति शरनाम, तद् यथा सत्वपीडाकरम्, एवं भूतमपि ॥